Sarga 24: Kausalyā's Grief Consoled
कौसल्यार्तिसमाश्वासनम्
kausalyārtisamāśvāsanam — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते। भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ।।2.24.11।।
Meaning
भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः। स भवत्या न कर्तव्यो मनसाऽपि विगर्हितः ।।2.24.12।।
Meaning
यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः। शुश्रूषा क्रियतां तावत्स हि धर्मः सनातनः ।।2.24.13।।
Meaning
एवमुक्ता तु रामेण कौसल्या शुभदर्शना। तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् ।।2.24.14।।
Meaning
एवमुक्तस्तु वचनं रामो धर्मभृतां वरः। भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ।।2.24.15।।
Meaning
मया चैव भवत्या च कर्तव्यं वचनं पितुः। राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ।।2.24.16।।
Meaning
इमानि तु महारण्ये विहृत्य नव पञ्च च। वर्षाणि परमप्रीतः स्थास्यामि वचने तव ।।2.24.17।।
Meaning
एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा। उवाच परमार्ता तु कौसल्या पुत्रवत्सला ।।2.24.18।।
Meaning
आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम्। नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव ।।2.24.19।।
Meaning
यदि ते गमने बुद्धिः कृता पितुरपेक्षया। तां तथा रुदतीं रामो रुदन्वचनमब्रवीत् ।।2.24.20।।
Meaning