Sarga 24: Kausalyā's Grief Consoled
कौसल्यार्तिसमाश्वासनम्
kausalyārtisamāśvāsanam — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च। भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ।।2.24.21।।
Meaning
न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता। भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ।।2.24.22।।
Meaning
भवतीमनुवर्तेत स हि धर्मरतः सदा। यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ।।2.24.23।।
Meaning
श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु। दारुणश्चाप्ययं शोको यथैनं न विनाशयेत् ।।2.24.24।।
Meaning
राज्ञो वृद्धस्य सततं हितं चर समाहिता। व्रतोपवासनिरता या नारी परमोत्तमा ।।2.24.25।।
Meaning
भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत्। भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम् ।।2.24.26।।
Meaning
अपि या निर्नमस्कारा निवृत्ता देवपूजनात्। शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ।।2.24.27।।
Meaning
एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः। अग्निकार्येषु च सदा सुमनोभिश्च देवताः ।।2.24.28।।
Meaning
पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः। एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी ।।2.24.29।।
Meaning
नियता नियताहारा भर्तृशुश्रूषणे रता। प्राप्स्यसे परमं कामं मयि प्रत्यागते सति ।।2.24.30।।
Meaning