Sarga 24: Kausalyā's Grief Consoled
कौसल्यार्तिसमाश्वासनम्
kausalyārtisamāśvāsanam — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्। एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा ।।2.24.31।।
Meaning
कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत्। गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक ।।2.24.32।।
Meaning
विनिवर्तयितुं वीर नूनं कालो दुरत्ययः। गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो ।।2.24.33।।
Meaning
पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा। प्रत्यागते महाभागे कृतार्थे चरितव्रते ।।2.24.34।।
Meaning
पितुरानृण्यतां प्राप्ते त्वयि लप्स्ये परं सुखम्। कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि ।।2.24.35।।
Meaning
यस्त्वां सञ्चोदयति मे वच आच्छिद्य राघव। गच्छेदानीं महाबाहो क्षेमेण पुनरागतः ।।2.24.36।।
Meaning
नन्दयिष्यसि मां पुत्र साम्ना वाक्येन चारुणा। अपीदानीं स कालः स्याद्वनात्प्रत्यागतं पुनः। यत्त्वां पुत्रक पश्येयं जटावल्कलधारिणम् ।।2.24.37।।
Meaning
तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा। उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकाङ्क्षिणी ।।2.24.38।।
Meaning