Sarga 118: Receiving Divine Ornaments

दिव्यालङ्कारग्रहणम्

divyālaṅkāragrahaṇam — word-by-word gloss for all 54 shlokas.

Page 1 of 654 shlokas in this sarga (verified max-across-sources)
Shloka 118.1Word-by-word available

सा त्वेवमुक्ता वैदेही त्वनसूयानसूयया । प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ।।2.118.1।।

Meaning

Shloka 118.2Word-by-word available

नैतदाश्चर्य्यमार्यायाः यन्मां त्वमनुभाषसे । विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः ।।2.118.2।।

Meaning

Shloka 118.3Word-by-word available

यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः । अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ।।2.118.3।।

Meaning

Shloka 118.4Word-by-word available

किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः । स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ।।2.118.4।।

Meaning

Shloka 118.5Word-by-word available

यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः । तामेव नृपनारीणामन्यासामपि वर्तते ।।2.118.5।।

Meaning

Shloka 118.6Word-by-word available

सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः । मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित् ।।2.118.6।।

Meaning

Shloka 118.7Word-by-word available

आगच्छन्त्याश्च विजनं वनमेवं भयावहम् । समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ।।2.118.7।।

Meaning

Shloka 118.8Word-by-word available

पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ । अनुशिष्टा जनन्यास्मि वाक्यं तदपि मे धृतम् ।।2.118.8।।

Meaning

Shloka 118.9Word-by-word available

नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि । पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते ।।2.118.9।।

Meaning

Shloka 118.10Word-by-word available

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ।।2.118.10।।

Meaning