Sarga 118: Receiving Divine Ornaments
दिव्यालङ्कारग्रहणम्
divyālaṅkāragrahaṇam — word-by-word gloss for all 54 shlokas.
Jump to a shloka · 54 in this sarga
वरिष्ठा सर्वनारीणामेषा च दिवि देवता । रोहिणी न विना चन्द्रं मुहूर्तमपि दृश्यते ।।2.118.11।।
Meaning
एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः । देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ।।2.118.12।।
Meaning
ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः । शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ।।2.118.13।।
Meaning
नियमैर्विविधैराप्तं तपो हि महदस्ति मे । तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ।।2.118.14।।
Meaning
उपपन्नं मनोज्ञं च वचनं तव मैथिलि । प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ।।2.118.15।।
Meaning
तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया । कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ।।2.118.16।।
Meaning
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत् । सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ।।2.118.17।।
Meaning
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च । अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ।।2.118.18।।
Meaning
मया दत्तमिदं सीते तव गात्राणि शोभयेत् । अनुरूपमसङ्क्लिष्टं नित्यमेव भविष्यति ।।2.118.19।।
Meaning
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे । शोभयिष्यसि भर्तारं यथा श्रीर्विष्णुमव्ययम् ।।2.118.20।।
Meaning