Sarga 63: The Tale of the Sage's Son Slain
ऋषिकुमारवधाख्यानम्
ṛṣikumāravadhākhyānam — word-by-word gloss for all 56 shlokas.
Jump to a shloka · 56 in this sarga
प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः । अथ राजा दशरथः सचिन्तामभ्यपद्यत ।।2.63.1।।
Meaning
रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम् । आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् ।।2.63.2।।
Meaning
सभार्ये निर्गते रामे कौसल्यां कोसलेश्वरः । विवक्षुरसितापाङ्गां स्मृत्वा दुष्कृतमात्मनः ।।2.63.3।।
Meaning
स राजा रजनीं षष्ठीं रामे प्रव्रजिते वनम् । अर्धरात्रे दशरथः संस्मरन् दुष्कृतं कृतम् ।।2.63.4।।
Meaning
स राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः । कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् ।।2.63.5।।
Meaning
यदाचरति कल्याणि शुभं वा यदि वाशुभम् । तदेव लभते भद्रे कर्ता कर्मजमात्मनः ।।2.63.6।।
Meaning
गुरुलाघवमर्थानामारम्भे कर्मणां फलम् । दोषं वा यो न जानाति स बालैति होच्यते ।।2.63.7।।
Meaning
कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति । पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ।।2.63.8।।
Meaning
अविज्ञाय फलं यो हि कर्म त्वेवानुधावति । स शोचेत्फलवेलायां यथा किंशुकसेचकः ।।2.63.9।।
Meaning
सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम् । रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः ।।2.63.10।।
Meaning