← Ayodhyā Kāṇḍa

Sarga 63: The Tale of the Sage's Son Slain

ऋषिकुमारवधाख्यानम्

ṛṣikumāravadhākhyānam — word-by-word gloss for all 56 shlokas.

Page 2 of 656 shlokas in this sarga (verified max-across-sources)
Shloka 63.11Word-by-word available

लब्धशब्देन कौसल्ये कुमारेण धनुष्मता । कुमारः शब्दवेधीति मया पापमिदं कृतम् ।।2.63.11।।

Meaning

Shloka 63.12Word-by-word available

तदिदं मेऽनुसम्प्राप्तं देवि दुःखं स्वयं कृतम् । सम्मोहादिह बालेन यथा स्यात्भक्षितं विषम् ।।2.63.12।।

Meaning

Shloka 63.13Word-by-word available

यथान्यः पुरुषः कश्चित्पलाशैर्मोहितो भवेत् । एवं ममाप्यविज्ञातं शब्दवेध्यमयं फलम् ।।2.63.13।।

Meaning

Shloka 63.14Word-by-word available

देव्यनूढा त्वमभवो युवराजो भवाम्यहम् । ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी ।।2.63.14।।

Meaning

Shloka 63.15Word-by-word available

उपास्यहि रसान् भौमांस्तप्त्वा च जगदंशुभिः । परेताचरितां भीमां रविराविशते दिशम् ।।2.63.15।।

Meaning

Shloka 63.16Word-by-word available

उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः । ततः जहृषिरे सर्वे भेकसारन्गबर्हिणः ।।2.63.16।।

Meaning

Shloka 63.17Word-by-word available

क्लिन्नपक्षोत्तराः स्नाताः कृच्छ्रादिव पतत्रिणः । वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ।।2.63.17।।

Meaning

Shloka 63.18Word-by-word available

पतितेनाम्भसा छन्नः पतमानेन चासकृत् । आबभौ मत्तसारन्गस्तोयराशिरिवाचलः ।।2.63.18।।

Meaning

Shloka 63.19Word-by-word available

पाण्डुरारुणवर्णानि स्रोतांसि विमलान्यपि । सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ।।2.63.19।।

Meaning

Shloka 63.20Word-by-word available

आकुलारुणतोयानि स्रोतांसि विमलान्यपि । उन्मार्गजलवाहीनि बभूवुर्जलदागमे ।।2.63.20।।

Meaning