Sarga 63: The Tale of the Sage's Son Slain
ऋषिकुमारवधाख्यानम्
ṛṣikumāravadhākhyānam — word-by-word gloss for all 56 shlokas.
Jump to a shloka · 56 in this sarga
तस्मिन्नतिसुखे काले धनुष्मानिषुमान् रथी । व्यायामकृतसंकल्पः सरयूमन्वगां नदीम् ।।2.63.21।।
Meaning
निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् । अन्यं वा श्वापदं कञ्चित् जिघांसुरजितेन्द्रियः । तस्मिंस्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः ।।2.63.22।।
Meaning
तत्राहं संवृतं वन्यं हतवांस्तीरमागतम् । अन्यं चापि मृगं हिंस्रं शब्दं श्रुत्वाभ्युपागतम् ।।2.63.23।।
Meaning
अथान्धकारे त्वश्रौषं जले कुम्भस्य पर्यतः । अचक्षुर्विषये घोषं वारणस्येव नर्दतः ।।2.63.24।।
Meaning
ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम् । शब्दं प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ।।2.63.25।।
Meaning
अमुञ्चं निशितं बाणमहमाशीविषोपमम् ।।2.63.26।।
Meaning
तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः । हाहेति पततस्तोये बाणाभिहतमर्मणः ।।2.63.27।।
Meaning
तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी । कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि ।।2.63.28।।
Meaning
प्रविविक्तां नदीं रात्रावुदाहारोऽहमागतः । इषुणाभिहतः केन कस्य वा किं कृतं मया ।।2.63.29।।
Meaning
ऋषेर्हि न्यस्तदण्डस्य वने वन्येन जीवतः । कथं नु शस्त्रेण वधो मद्विधस्य विधीयते ।।2.63.30।।
Meaning