← Ayodhyā Kāṇḍa

Sarga 63: The Tale of the Sage's Son Slain

ऋषिकुमारवधाख्यानम्

ṛṣikumāravadhākhyānam — word-by-word gloss for all 56 shlokas.

Page 4 of 656 shlokas in this sarga (verified max-across-sources)
Shloka 63.31Word-by-word available

जटाभारधरस्यैव वल्कलाजिनवाससः । को वधेन ममार्थी स्यात् किं वाऽस्यापकृतं मया ।।2.63.31।।

Meaning

Shloka 63.32Word-by-word available

एवं निष्फलमारब्धं केवलानर्थसंहितम् । न कश्चित् साधु मन्येत यथैव गुरुतल्पगम् ।।2.63.32।।

Meaning

Shloka 63.33Word-by-word available

नाहं तथानुशोचामि जीवितक्षयमात्मनः । मातरं पितरं चोभावनुशोचामि मद्विधे ।।2.63.33।।

Meaning

Shloka 63.34Word-by-word available

तदेतन्मिथुनं वृद्धं चिरकालभृतं मया । मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति ।।2.63.34।।

Meaning

Shloka 63.35Word-by-word available

वृद्धौ च माता पितरावहं चैकेषुणा हतः । केन स्म निहताः सर्वे सुबालेनाकृतात्मना ।।2.63.35।।

Meaning

Shloka 63.36Word-by-word available

तं गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः । कराभ्यां सशरं चापं व्यथितस्यापतत्भुवि ।।2.63.36।।

Meaning

Shloka 63.37Word-by-word available

तस्याहं करुणं श्रुत्वा निशि लालपतो बहु । सम्भ्रान्तः शोकवेगेन भृशमास विचेतनः ।।2.63.37।।

Meaning

Shloka 63.38Word-by-word available

तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः । अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ।।2.63.38।।

Meaning

Shloka 63.39Word-by-word available

अवकीर्णजटाभारं प्रविद्धकलशोदकम् । पांशुशोणितदिग्धाङ्गं शयानं शल्यपीडितम् ।।2.63.39।।

Meaning

Shloka 63.40Word-by-word available

स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम् । इत्युवाच वचः क्रूरं दिधक्षन्निव तेजसा ।।2.63.40।।

Meaning