Sarga 63: The Tale of the Sage's Son Slain
ऋषिकुमारवधाख्यानम्
ṛṣikumāravadhākhyānam — word-by-word gloss for all 56 shlokas.
Jump to a shloka · 56 in this sarga
किं तवापकृतं राजन् वने निवसता मया । जिहीर्षुरम्भो गुर्वर्थं यदहं ताडितः त्वया ।।2.63.41।।
Meaning
एकेन खलु बाणेन मर्मण्यभिहते मयि । द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे ।।2.63.42।।
Meaning
तौ नूनं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ । चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यतः ।।2.63.43।।
Meaning
न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा । पिता यन्मां न जानाति शयानं पतितं भुवि ।।2.63.44।।
Meaning
जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः । छिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम् ।।2.63.45।।
Meaning
पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव । न त्वामनुदहेत् क्रुद्धो वनं वह्निरिवैधितः ।।2.63.46।।
Meaning
इयमेकपदी राजन् यतो मे पितुराश्रमः । तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत् ।।2.63.47।।
Meaning
विशल्यं कुरु मां राजन् मर्म मे निशितः शरः । रुणद्धि मृदुसोत्सेधं तीरमम्बुरयो यथा ।।2.63.48।।
Meaning
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति । इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ।।2.63.49।।
Meaning
दुःखितस्य च दीनस्य मम शोकातुरस्य च । लक्षयामास हृदये चिन्तां मुनिसुतस्तदा ।।2.63.50।।
Meaning