Sarga 90: At Bharadvāja's Hermitage
भरद्वाजाश्रमनिवासः
bharadvājāśramanivāsaḥ — word-by-word gloss for all 24 shlokas.
Jump to a shloka · 24 in this sarga
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः । बलं सर्वमवस्थाप्य जगाम सहमन्त्रिभिः ।।2.90.1।।
Meaning
पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः । वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ।।2.90.2।।
Meaning
ततः सन्दर्शने तस्य भरद्वाजस्य राघवः । मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ।।2.90.3।।
Meaning
वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः । सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ।।2.90.4।।
Meaning
समागम्य वसिष्ठेन भरतेनाभिवादितः । अबुध्यत महातेजाः सुतं दशरथस्य तम् ।।2.90.5।।
Meaning
ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात्फलानि च । आनुपूर्व्याच्छ धर्मज्ञः पप्रच्छ कुशलं कुले ।।2.90.6।।
Meaning
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु । जानन् दशरथं वृत्तं न राजानमुदाहरत् ।।2.90.7।।
Meaning
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् । शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ।।2.90.8।।
Meaning
तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः । भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ।।2.90.9।।
Meaning
किमिहागमने कार्यं तव राज्यं प्रशासतः । एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मनः ।।2.90.10।।
Meaning