← Ayodhyā Kāṇḍa

Sarga 90: At Bharadvāja's Hermitage

भरद्वाजाश्रमनिवासः

bharadvājāśramanivāsaḥ — word-by-word gloss for all 24 shlokas.

Jump to a shloka · 24 in this sarga

Page 2 of 324 shlokas in this sarga (verified max-across-sources)
Shloka 90.11Word-by-word available

सुषुवे यममित्रघ्नं कौसल्यानन्दवर्धनम् । भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ।।2.90.11।।

Meaning

Shloka 90.12Word-by-word available

नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः । वनवासी भवेतीह समाः किल चतुर्दश ।।2.90.12।।

Meaning

Shloka 90.13Word-by-word available

कच्छिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि । अकण्टकं भोक्तुमनाः राज्यं तस्यानुजस्य च ।।2.90.13।।

Meaning

Shloka 90.14Word-by-word available

एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह । पर्यश्रुनयनो दुःखाद्वाचा संसज्जमानया ।।2.90.14।।

Meaning

Shloka 90.15Word-by-word available

हतोऽस्मि यदि मामेवं भगवानपि मन्यते । मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ।।2.90.15।।

Meaning

Shloka 90.16Word-by-word available

न चैतदिष्टं माता मे यदवोचन्मदन्तरे । नाहमेतेन तुष्टश्च न तद्वचनमाददे ।।2.90.16।।

Meaning

Shloka 90.17Word-by-word available

अहं तु तं नरव्याघ्रमुपयातः प्रसादकः । प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ।।2.90.17।।

Meaning

Shloka 90.18Word-by-word available

त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि । शंस मे भगवन्रामः क्व सम्प्रति महीपतिः ।।2.90.18।।

Meaning

Shloka 90.19Word-by-word available

वसिष्ठादिभिरृत्विग्भिर्याचितो भगवांस्ततः । उवाच तं भरद्वाजः प्रसादाद्भरतं वचः ।।2.90.19।।

Meaning

Shloka 90.20Word-by-word available

त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे । गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ।।2.90.20।।

Meaning