Sarga 9: Plotting Rāma's Exile
रामप्रवासनोपायचिन्ता
rāmapravāsanopāyacintā — word-by-word gloss for all 66 shlokas.
Jump to a shloka · 66 in this sarga
एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना। दीर्घमुष्णं विनिश्वस्य मन्थरामिदमब्रवीत् ।।2.9.1।।
Meaning
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्। यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ।।2.9.2।।
Meaning
इदं त्विदानीं सम्पश्ये केनोपायेन मन्थरे। भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ।।2.9.3।।
Meaning
एवमुक्ता तु सा देव्या मन्थरा पापदर्शिनी। रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ।।2.9.4।।
Meaning
हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे। यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ।।2.9.5।।
Meaning
किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे। यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ।।2.9.6।।
Meaning
मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि। श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम् ।।2.9.7।।
Meaning
श्रुत्वैवं वचनं तस्याः मन्थरायास्तु कैकयी। किञ्चिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् ।।2.9.8।।
Meaning
कथय त्वं ममोपायं केनोपायेन मन्थरे। भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ।।2.9.9।।
Meaning
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी। रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ।।2.9.10।।
Meaning