Sarga 97: Praise of Bharata's Virtue
भरतगुणप्रशंसा
bharataguṇapraśaṃsā — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् । रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ।।2.97.1।।
Meaning
किमत्र धनुषा कार्यमसिना वा सचर्मणा । महेष्वासे महाप्राज्ञे भरते स्वयमागते ।।2.97.2।।
Meaning
पितुः सत्यं प्रतिश्रुत्य हत्वा भरतमागतम् । किं करिष्यामि राज्येन सापवादेन लक्ष्मण ।।2.97.3।।
Meaning
यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत् । नाहं तत् प्रतिगृह्णीयां भक्षान्विषकृतानिव ।।2.97.4।।
Meaning
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण । इच्छामि भवतामर्थे एतत् प्रतिशृणोमि ते ।।2.97.5।।
Meaning
भ्रातॄणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण । राज्यमप्यहमिच्छामि सत्येनायुधमालभे ।।2.97.6।।
Meaning
नेयं मम मही सौम्य दुर्लभा सागराम्बरा । न हीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ।।2.97.7।।
Meaning
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद । भवेन्मम सुखं किञ्चिद्भस्म तत्कुरुतां शिखी ।।2.97.8।।
Meaning
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः । मम प्राणात्प्रियतरः कुलधर्ममनुस्मरन् ।।2.97.9।।
Meaning
श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम् । जानक्यासहितं वीर त्वया च पुरुषर्षभ ।।2.97.10।।
Meaning