← Ayodhyā Kāṇḍa

Sarga 97: Praise of Bharata's Virtue

भरतगुणप्रशंसा

bharataguṇapraśaṃsā — word-by-word gloss for all 31 shlokas.

Jump to a shloka · 31 in this sarga

Page 2 of 431 shlokas in this sarga (verified max-across-sources)
Shloka 97.11Word-by-word available

स्नेहेनाक्रान्तहृदयः शोकेनाकुलितेन्द्रियः । द्रष्टुमभ्यागतो ह्येष भरतो नान्यथागतः ।।2.97.11।।

Meaning

Shloka 97.12Word-by-word available

अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन् । प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागतः ।।2.97.12।।

Meaning

Shloka 97.13Word-by-word available

प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति । अस्मासु मनसाप्येषः नाप्रियं किञ्चिदाचरेत् ।।2.97.13।।

Meaning

Shloka 97.14Word-by-word available

विप्रियं कृतपूर्वं ते भरतेन कदा नु किम् । ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ।।2.97.14।।

Meaning

Shloka 97.15Word-by-word available

न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः । अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते ।।2.97.15।।

Meaning

Shloka 97.16Word-by-word available

कथं नु पुत्राः पितरं हन्युः कस्याञ्चिदापदि । भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मनः ।।2.97.16।।

Meaning

Shloka 97.17Word-by-word available

यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे । वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ।।2.97.17।।

Meaning

Shloka 97.18Word-by-word available

उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वतः । राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ।।2.97.18।।

Meaning

Shloka 97.19Word-by-word available

तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः । लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ।।2.97.19।।

Meaning

Shloka 97.20Word-by-word available

तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच ह । त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् ।।2.97.20।।

Meaning