Sarga 75: Bharata's Oath
भरतशपथः
bharataśapathaḥ — word-by-word gloss for all 65 shlokas.
Jump to a shloka · 65 in this sarga
दीर्घकालात्समुत्थाय सञ्ज्ञां लब्ध्वा च वीर्यवान् । नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्वीक्ष्य मातरम् ।।2.75.1।।
Meaning
सोऽमात्यमध्ये भरतो जननीमभ्यकुत्सयत् । राज्यं न कामये जातु मन्त्रये नापि मातरम् ।।2.75.2।।
Meaning
अभिषेकं न जानामि योऽभूद्राज्ञा समीक्षितः । विप्रकृष्टे ह्यहं देशे शत्रुघ्नसहितोऽवसम् ।।2.75.3।।
Meaning
वनवासं न जानामि रामस्याहं महात्मनः । विवासनं वा सौमित्रेः सीतायाश्च यथाभवत् ।।2.75.4।।
Meaning
तथैव क्रोशतस्तस्य भरतस्य महात्मनः । कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत् ।।2.75.5।।
Meaning
आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः । तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् ।।2.75.6।।
Meaning
एवमुक्त्वा सुमित्रां सा विवर्णा मलिना कृशा । प्रतस्थे भरतः यत्र वेपमाना विचेतना ।।2.75.7।।
Meaning
स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा । प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ।।2.75.8।।
Meaning
ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ । पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम् ।।2.75.9।।
Meaning
रुदन्तौ रुदतीं दुःखात्समेत्यार्यां मनस्विनीम् । भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता ।।2.75.10।।
Meaning