← Ayodhyā Kāṇḍa

Sarga 75: Bharata's Oath

भरतशपथः

bharataśapathaḥ — word-by-word gloss for all 65 shlokas.

Page 2 of 765 shlokas in this sarga (verified max-across-sources)
Shloka 75.11Word-by-word available

इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् । सम्प्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा ।।2.75.11।।

Meaning

Shloka 75.12Word-by-word available

प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् । कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी ।।2.75.12।।

Meaning

Shloka 75.13Word-by-word available

क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति । हिरण्यनाभो यत्रास्ते सुतः मे सुमहायशाः ।।2.75.13।।

Meaning

Shloka 75.14Word-by-word available

अथवा स्वयमेवाहं सुमित्रानुचरा सुखम् । अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः ।।2.75.14।।

Meaning

Shloka 75.15Word-by-word available

कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि । यत्रासौ पुरुषव्याघ्रः पुत्रो मे तप्यते तपः ।।2.75.15।।

Meaning

Shloka 75.16Word-by-word available

इदं हि तव विस्तीर्णं धनधान्यसमाचितम् । हस्त्यश्वरथसम्पूर्णं राज्यं निर्यातितं तया ।।2.75.16।।

Meaning

Shloka 75.17Word-by-word available

इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्त्सितोऽनघः । विव्यथे भरतस्तीव्रं व्रणे तुद्येव सूचिना ।।2.75.17।।

Meaning

Shloka 75.18Word-by-word available

पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः । विलप्य बहुधासञ्ज्ञो लब्धसञ्ज्ञस्ततः स्थितः ।।2.75.18।।

Meaning

Shloka 75.19Word-by-word available

एवं विलपमानां तां भरतः प्राञ्जलिस्तदा । कौसल्यां प्रत्युवाचेदं शोकैः बहुभिरावृताम् ।।2.75.19।।

Meaning

Shloka 75.20Word-by-word available

आर्ये कस्मादजानन्तं गर्हसे मामकिल्भिषम् । विपुलां च मम प्रीतिं स्थिरां जानासि राघवे ।।2.75.20।।

Meaning