← Ayodhyā Kāṇḍa

Sarga 75: Bharata's Oath

भरतशपथः

bharataśapathaḥ — word-by-word gloss for all 65 shlokas.

Page 3 of 765 shlokas in this sarga (verified max-across-sources)
Shloka 75.21Word-by-word available

कृता शास्त्रानुगा बुद्धिर्माभूत्तस्य कदाचन । सत्यसन्धः सतां श्रेष्ठो यस्यार्योऽनुमते गतः ।।2.75.21।।

Meaning

Shloka 75.22Word-by-word available

प्रेष्यं पापीयसां यातु सूर्यं च प्रति मेहतु । हन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः ।।2.75.22।।

Meaning

Shloka 75.23Word-by-word available

कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम् । अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ।।2.75.23।।

Meaning

Shloka 75.24Word-by-word available

परिपालयमानस्य राज्ञो भूतानि पुत्रवत् । ततस्तं द्रुह्यतां पापं यस्यार्योऽनुमते गतः ।।2.75.24।।

Meaning

Shloka 75.25Word-by-word available

बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः । अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ।।2.75.25।।

Meaning

Shloka 75.26Word-by-word available

संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् । तां विप्रलपतां पापं यस्यार्योऽनुमते गतः ।।2.75.26।।

Meaning

Shloka 75.27Word-by-word available

हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले । मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः ।।2.75.27।।

Meaning

Shloka 75.28Word-by-word available

उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता । स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः ।।2.75.28।।

Meaning

Shloka 75.29Word-by-word available

मा च तं व्यूढबाह्वंसं चन्द्रार्कसमतेजनम् । द्राक्षीद्राज्यस्थमासीनं यस्यार्योऽनुमते गतः ।।2.75.29।।

Meaning

Shloka 75.30Word-by-word available

पायसं कृसरं चागं वृथा सोऽश्नातु निर्घृणः । गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः ।।2.75.30।।

Meaning