Sarga 75: Bharata's Oath
भरतशपथः
bharataśapathaḥ — word-by-word gloss for all 65 shlokas.
Jump to a shloka · 65 in this sarga
गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् । मित्रे द्रुह्येत सोऽत्यन्तं यस्यार्योऽनुमते गतः ।।2.75.31।।
Meaning
विश्वासात्कथितं किञ्चित्परिवादं मिथः क्वचित् । विवृणोतु स दुष्टात्मा यस्यार्योऽनुमते गतः ।।2.75.32।।
Meaning
अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः । लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ।।2.75.33।।
Meaning
पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः । सैको मृष्टमश्नातु यस्यार्योऽनुमते गतः ।।2.75.34।।
Meaning
अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् । अनवाप्य क्रियां धर्म्यां यस्यार्योऽनुमते गतः ।।2.75.35।।
Meaning
मात्मनः सन्ततिं द्राक्षीत्स्वेषु दारेषु दुःखितः । आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ।।2.75.36।।
Meaning
राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते । भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् ।।2.75.37।।
Meaning
लाक्षया मधुमांसेन लोहेन च विषेण च । सदैव बिभृयाद्भृत्यान् यस्यार्योऽनुमते गतः ।।2.75.38।।
Meaning
सङ्ग्रामे समुपोढे स्म शत्रुपक्षभयङ्करे । पलायमानो वध्येत यस्यार्योऽनुमते गतः ।।2.75.39।।
Meaning
कपालपाणिः पृथिवीमटतां चीरसंवृतः । भिक्षमाणो यथोन्मत्तो यस्यार्योऽनुमते गतः ।।2.75.40।।
Meaning