← Ayodhyā Kāṇḍa

Sarga 75: Bharata's Oath

भरतशपथः

bharataśapathaḥ — word-by-word gloss for all 65 shlokas.

Page 5 of 765 shlokas in this sarga (verified max-across-sources)
Shloka 75.41Word-by-word available

मद्ये प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः । कामक्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ।।2.75.41।।

Meaning

Shloka 75.42Word-by-word available

मा स्म धर्मे मनो भूयादधर्मं सुनिषेवताम् । अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ।।2.75.42।।

Meaning

Shloka 75.43Word-by-word available

सञ्चितान्यस्य वित्तानि विविधानि सहस्रशः । दस्युभिर्विप्रलुप्यन्तां यस्यार्योऽनुमते गतः ।।2.75.43।।

Meaning

Shloka 75.44Word-by-word available

उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते । तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः ।।2.75.44।।

Meaning

Shloka 75.45Word-by-word available

यदग्निदायके पापं यत्पापं गुरुतल्पगे । मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम् ।।2.75.45।।

Meaning

Shloka 75.46Word-by-word available

देवतानां पितॄणां च मातापित्रोस्तथैव च । मा स्म कार्षीत् स शुश्रूषां यस्यार्योऽनुमते गतः ।।2.75.46।।

Meaning

Shloka 75.47Word-by-word available

सतां लोकात्सतां कीर्त्याः सञ्जुष्टात् कर्मणस्तथा । भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः ।।2.75.47।।

Meaning

Shloka 75.48Word-by-word available

अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् । दीर्घबाहुर्महावक्षाः यस्यार्योऽनुमते गतः ।।2.75.48।।

Meaning

Shloka 75.49Word-by-word available

बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः । स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ।।2.75.49।।

Meaning

Shloka 75.50Word-by-word available

आशामाशं समानानां दीनानामूर्ध्वचक्षुषाम् । आर्थिनां वितथां कुर्याद्यस्यार्योऽनुमते गतः ।।2.75.50।।

Meaning