Sarga 75: Bharata's Oath
भरतशपथः
bharataśapathaḥ — word-by-word gloss for all 65 shlokas.
Jump to a shloka · 65 in this sarga
मायया रमतां नित्यं परुषः पिशुनोऽशुचिः । राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः ।।2.75.51।।
Meaning
ऋतुस्नातां सतीं भार्यामृतुकालानुरोधिनीम् । अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ।।2.75.52।।
Meaning
धर्मदारान् परित्यज्य परदारान्निषेवताम् । त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ।।2.75.53।।
Meaning
विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत् । तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ।।2.75.54।।
Meaning
पानीयदूषके पापं तथैव विषदायके । यत्तदेकः स लभतां यस्यार्योऽनुमते गतः ।।2.75.55।।
Meaning
ब्राह्मणायोद्यतां पूजां विहन्तु कलुषेन्द्रियः । बालवत्सां च गां दोग्धुः यस्यार्योऽनुमते गतः ।।2.75.56।।
Meaning
तृष्णार्तं सति पानीये विप्रलम्भेन योजयेत् । लभेत तस्य यत्पापं यस्यार्योऽनुमते गतः ।।2.75.57।।
Meaning
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः । तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ।।2.75.58।।
Meaning
विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः । एवमाश्वासयन्नेव दुःखार्तो निपपात ह ।।2.75.59।।
Meaning
तथा तु शपथैः कष्टैः शपमानमचेतनम् । भरतं शोकसन्तप्तं कौसल्या वाक्यमब्रवीत् ।।2.75.60।।
Meaning