Sarga 91: Bharadvāja's Hospitality
भरद्वाजातिथ्यम्
bharadvājātithyam — word-by-word gloss for all 84 shlokas.
Jump to a shloka · 84 in this sarga
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ।।2.91.1।।
Meaning
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् । पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ।।2.91.2।।
Meaning
अथोवाच भरद्वाजो भरतं प्रहसन्निव । जाने त्वां प्रीतिसम्युक्तं तुष्येस्त्वं येन केनचित् ।।2.91.3।।
Meaning
सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् । मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ।।2.91.4।।
Meaning
किमर्थं चापि निक्षिप्य दूरे बलमिहागतः । कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभ ।।2.91.5।।
Meaning
भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । ससैन्यो नोपयातोऽस्मि भगवन् भगवद्भयात् ।।2.91.6।।
Meaning
राज्ञा च भगवन्नित्यं राजपुत्रेण वा सदा । यत्नतः परिहर्तव्या विषयेषु तपस्विनः ।।2.91.7।।
Meaning
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः । प्रच्छाद्य भगवन्भूमिं महतीमनुयान्ति माम् ।।2.91.8।।
Meaning
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा । न हिंस्युरिति तेनाहमेकैव समागतः ।।2.91.9।।
Meaning
आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा । ततस्तु चक्रे भरतः सेनायाः समुपागमम् ।।2.91.10।।
Meaning