← Ayodhyā Kāṇḍa

Sarga 91: Bharadvāja's Hospitality

भरद्वाजातिथ्यम्

bharadvājātithyam — word-by-word gloss for all 84 shlokas.

Page 2 of 984 shlokas in this sarga (verified max-across-sources)
Shloka 91.11Word-by-word available

अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च । आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ।।2.91.11।।

Meaning

Shloka 91.12Word-by-word available

आह्वये विश्वकर्माणमहं त्वष्टारमेव च । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।।2.91.12।।

Meaning

Shloka 91.13Word-by-word available

आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।।2.91.13।।

Meaning

Shloka 91.14Word-by-word available

प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतसैव च । पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ।।2.91.14।।

Meaning

Shloka 91.15Word-by-word available

अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् । अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ।।2.91.15।।

Meaning

Shloka 91.16Word-by-word available

आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् । तथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः ।।2.91.16।।

Meaning

Shloka 91.17Word-by-word available

घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् । नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ।।2.91.17।।

Meaning

Shloka 91.18Word-by-word available

शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः । सर्वास्तुम्बुरुणा सार्थमाह्वये सपरिच्छदाः ।।2.91.18।।

Meaning

Shloka 91.19Word-by-word available

वनं कुरुषु यद्दिव्यं वासोभूषणपत्त्रवत् । दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ।।2.91.19।।

Meaning

Shloka 91.20Word-by-word available

इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् । भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ।।2.91.20।।

Meaning