Sarga 91: Bharadvāja's Hospitality
भरद्वाजातिथ्यम्
bharadvājātithyam — word-by-word gloss for all 84 shlokas.
Jump to a shloka · 84 in this sarga
विचित्राणि च माल्यानि पादपप्रच्युतानि च । सुरादीनि च पेयानि मांसानि विविधानि च ।।2.91.21।।
Meaning
एवं समाधिना युक्तस्तेजसाप्रतिमेन च । शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ।।2.91.22।।
Meaning
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः । आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ।।2.91.23।।
Meaning
मलयं दर्दुरं चैव ततः स्वेदनुदोऽनिलः । उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ।।2.91.24।।
Meaning
ततोभ्यवर्तन्त घनाः दिव्याः कुसुमवृष्टयः । दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ।।2.91.25।।
Meaning
प्रववुश्चोत्तमा वाताः ननृतुश्चाप्सरोगणाः । प्रजगुर्देवगन्धर्वाः वीणाः प्रमुमुचुस्स्वरान् ।।2.91.26।।
Meaning
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च । विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ।।2.91.27।।
Meaning
तस्मिन्नुपरते शब्दे दिव्ये श्रोतृसुखे नृणाम् । ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ।।2.91.28।।
Meaning
बभूव हि समा भूमिः समन्तात्पञ्चयोजना । शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्यसन्निभैः ।।2.91.29।।
Meaning
तस्मिन्बिल्वाः कपित्थाश्च पनसा बीजपूरकाः । आमलक्यो बभूवुश्च चूताश्च फलभूषणाः ।।2.91.30।।
Meaning