Sarga 91: Bharadvāja's Hospitality
भरद्वाजातिथ्यम्
bharadvājātithyam — word-by-word gloss for all 84 shlokas.
Jump to a shloka · 84 in this sarga
उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् । आजगाम नदी दिव्या तीरजैर्बहुभिर्वृता ।।2.91.31।।
Meaning
चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् । हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ।।2.91.32।।
Meaning
सितमेघनिभं चापि राजवेश्मसु तोरणम् । दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ।।2.91.33।।
Meaning
चतुरश्रमसम्बाधं शयनासनयानवत् । दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ।।2.91.34।।
Meaning
उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् । क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ।।2.91.35।।
Meaning
प्रविवेश महाबाहुरनुज्ञातो महर्षिणा । वेश्म तद्रत्नसम्पूर्णं भरतः केकयीसुतः ।।2.91.36।।
Meaning
अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः । बभूवुश्च मुदा युक्ताः दृष्ट्वा तं वेश्मसंविधिम् ।।2.91.37।।
Meaning
तत्र राजासनं दिव्यं व्यजनं छत्रमेव च । भरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत् ।।2.91.38।।
Meaning
आसनं पूजयामास रामायाभिप्रणम्य च । वालव्यजनमादाय न्यषीदत्सचिवासने ।।2.91.39।।
Meaning
आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिताः । ततः सेनापतिः पश्चात् प्रशास्ताच निषेदतुः ।।2.91.40।।
Meaning