Sarga 91: Bharadvāja's Hospitality
भरद्वाजातिथ्यम्
bharadvājātithyam — word-by-word gloss for all 84 shlokas.
Jump to a shloka · 84 in this sarga
ततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः । उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ।।2.91.41।।
Meaning
तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः । रम्याश्चावसथा दिव्याः ब्रह्मणस्तु प्रसादजाः ।।2.91.42।।
Meaning
तेनैव च मुहूर्तेन दिव्याभरणभूषिताः । आगुर्विंशतिसाहस्राः ब्रह्मणा प्रहिताः स्त्रियः ।।2.91.43।।
Meaning
सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः । आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ।।2.91.44।।
Meaning
याभिर्गृहीतपुरुषः सोन्माद इव लक्ष्यते । आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ।।2.91.45।।
Meaning
नारदस्तुम्बुरुर्गोपः प्रवराः सूर्यवर्चसः । एते गन्धर्वराजानो भरतस्याग्रतो जगुः ।।2.91.46।।
Meaning
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना । उपानृत्यंस्तु भरतं भरद्वाजस्य शासनात् ।।2.91.47।।
Meaning
यानि माल्यानि देवेषु यानि चैत्ररथे वने । प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ।।2.91.48।।
Meaning
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः । अश्वत्थानर्तकाश्चासन् भरद्वाजस्य शासनात् ।।2.91.49।।
Meaning
ततः सरलतालाश्च तिलका नक्तमालकाः । प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वामनाः ।।2.91.50।।
Meaning