← Ayodhyā Kāṇḍa

Sarga 91: Bharadvāja's Hospitality

भरद्वाजातिथ्यम्

bharadvājātithyam — word-by-word gloss for all 84 shlokas.

Page 6 of 984 shlokas in this sarga (verified max-across-sources)
Shloka 91.51Word-by-word available

शिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः । मालती मल्लिका जातिर्याश्चान्याः कानने लताः ।।2.91.51।।

Meaning

Shloka 91.52Word-by-word available

प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवदन् । सुराः सुरापाः पिबत पायसं च बुभुक्षिताः ।।2.91.52।।

Meaning

Shloka 91.53Word-by-word available

मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ । उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।।2.91.53।।

Meaning

Shloka 91.54Word-by-word available

अप्येकमेकं पुरुषं प्रमदाः सप्तचाष्ट च । संवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः ।।2.91.54।।

Meaning

Shloka 91.55Word-by-word available

परिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः । हयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान् ।।2.91.55।।

Meaning

Shloka 91.56Word-by-word available

अभोजयन्वाहनपास्तेषां भोज्यं यथाविधि । इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ।।2.91.56।।

Meaning

Shloka 91.57Word-by-word available

इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः । नाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः ।।2.91.57।।

Meaning

Shloka 91.58Word-by-word available

मत्तप्रमत्तमुदिता चमूः सा तत्र सम्बभौ । तर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः ।।2.91.58।।

Meaning

Shloka 91.59Word-by-word available

अप्सरोगणसम्युक्ताः सैन्या वाचमुदैरयन् । नैवायोध्यां गमिष्यामो नगमिष्याम दण्डकान् ।।2.91.59।।

Meaning

Shloka 91.60Word-by-word available

कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् । इति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः ।।2.91.60।।

Meaning