Sarga 91: Bharadvāja's Hospitality
भरद्वाजातिथ्यम्
bharadvājātithyam — word-by-word gloss for all 84 shlokas.
Jump to a shloka · 84 in this sarga
अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् । सम्प्रहृष्टा विनेदुस् ते नरास्तत्र सहस्रशः ।।2.91.61।।
Meaning
भरतस्यानुयातारः स्वर्गोऽयमिति चाब्रुवन् । नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः ।।2.91.62।।
Meaning
समन्तात्परिधावन्ति माल्योपेताः सहस्रशः । ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।।2.91.63।।
Meaning
दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः । प्रेष्याश्चेत्यश्च वध्वश्च बलस्थाश्च सहस्रशः ।।2.91.64।।
Meaning
बभूवुस्ते भृशं दृप्ताः सर्वे चाहतवाससः । कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिणः ।।2.91.65।।
Meaning
बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् । नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनोऽपि वा ।।2.91.66।।
Meaning
रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत । आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः ।।2.91.67।।
Meaning
फलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः । पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः ।।2.91.68।।
Meaning
ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः । बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः ।।2.91.69।।
Meaning
ताश्चकामदुघा गावो द्रुमाश्चासन्मधुस्रुतः । वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः ।।2.91.70।।
Meaning