← Ayodhyā Kāṇḍa

Sarga 91: Bharadvāja's Hospitality

भरद्वाजातिथ्यम्

bharadvājātithyam — word-by-word gloss for all 84 shlokas.

Page 8 of 984 shlokas in this sarga (verified max-across-sources)
Shloka 91.71Word-by-word available

प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः । पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।।2.91.71।।

Meaning

Shloka 91.72Word-by-word available

न्यर्बुदानि च पात्राणि शातकुम्भमयानि च । स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः ।।2.91.72।।

Meaning

Shloka 91.73Word-by-word available

यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः । ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे ।।2.91.73।।

Meaning

Shloka 91.74Word-by-word available

बभूवुः पायसस्यान्ये शर्करायाश्च सञ्चयाः । कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ।।2.91.74।।

Meaning

Shloka 91.75Word-by-word available

ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः । शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।।2.91.75।।

Meaning

Shloka 91.76Word-by-word available

शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः । दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् ।।2.91.76।।

Meaning

Shloka 91.77Word-by-word available

पादुकोपानहाश्चैव युग्मानि च सहस्रशः । आञ्जनीः कङ्कतान्कूर्चान् शस्त्राणि च धनूंषि च ।।2.91.77।।

Meaning

Shloka 91.78Word-by-word available

मर्मत्राणानि चित्राणि शयनान्यासनानि च । प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।।2.91.78।।

Meaning

Shloka 91.79Word-by-word available

अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् । आकाशवर्णप्रतिमान् स्वच्छतोयान्सुखप्लवान् ।।2.91.79।।

Meaning

Shloka 91.80Word-by-word available

नीलवैडूर्यवर्णांश्च मृदून्यवससञ्चयान् । निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ।।2.91.80।।

Meaning