Sarga 99: Meeting Rāma
रामसमागमः
rāmasamāgamaḥ — word-by-word gloss for all 42 shlokas.
Jump to a shloka · 42 in this sarga
निविष्टायां तु सेनायामुत्सुको भरतस्तदा । जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ।।2.99.1।।
Meaning
ऋषिं वसिष्ठं सन्दिश्य मातॄर्मे शीघ्रमानय । इति त्वरितमग्रे सः जगाम गुरुवत्सलः ।।2.99.2।।
Meaning
सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत । रामदर्शनजस्तर्षो भरतस्येव तस्य च ।।2.99.3।।
Meaning
गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् । भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह ।।2.99.4।।
Meaning
शालायास्त्वग्रतस्तस्याः ददर्श भरतस्तदा । काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ।।2.99.5।।
Meaning
स लक्ष्मणस्य रामस्य ददर्शाश्रममीयुषः । कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित् क्वचित् ।।2.99.6।।
Meaning
ददर्श च वने तस्मिन्महतः सञ्चयान् कृतान् । मृगाणां महिषाणां च करीषैः शीतकारणात् ।।2.99.7।।
Meaning
गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा । शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः ।।2.99.8।।
Meaning
मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् । नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः ।।2.99.9।।
Meaning
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् । अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ।।2.99.10।।
Meaning