← Ayodhyā Kāṇḍa

Sarga 99: Meeting Rāma

रामसमागमः

rāmasamāgamaḥ — word-by-word gloss for all 42 shlokas.

Page 2 of 542 shlokas in this sarga (verified max-across-sources)
Shloka 99.11Word-by-word available

इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् । शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ।।2.99.11।।

Meaning

Shloka 99.12Word-by-word available

यमेवाधातुमिच्छन्ति तापसाः सततं वने । तस्यासौ दृश्यते धूमः सङ्कुलः कृष्णवर्त्मनः ।।2.99.12।।

Meaning

Shloka 99.13Word-by-word available

अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम् । आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ।।2.99.13।।

Meaning

Shloka 99.14Word-by-word available

अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः । मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ।।2.99.14।।

Meaning

Shloka 99.15Word-by-word available

जगत्यां पुरुषव्याघ्रस् ते वीरासने रतः । जनेन्द्रो निर्जनं प्राप्य धिक् मे जन्म सजीवितम् ।।2.99.15।।

Meaning

Shloka 99.16Word-by-word available

मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः । सर्वान्कामान्परित्यज्य वने वसति राघवः ।।2.99.16।।

Meaning

Shloka 99.17Word-by-word available

इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् । रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ।।2.99.17।।

Meaning

Shloka 99.18Word-by-word available

एवं स विलपंस्तस्मिन् वने दशरथात्मजः । ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ।।2.99.18।।

Meaning

Shloka 99.19Word-by-word available

सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् । विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ।।2.99.19।।

Meaning

Shloka 99.20Word-by-word available

शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः । रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः ।।2.99.20।।

Meaning