Sarga 99: Meeting Rāma
रामसमागमः
rāmasamāgamaḥ — word-by-word gloss for all 42 shlokas.
Jump to a shloka · 42 in this sarga
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः । शोभितां दीप्तवदनैः सर्पैर्भोगवतीमिव ।।2.99.21।।
Meaning
महारजतवासोभ्यामसिभ्यां च विराजिताम् । रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ।।2.99.22।।
Meaning
गोधाङ्गुलित्रैरासक्तैश्चित्रैः काञ्चनभूषितैः । अरिसङ्घैरनाधृष्यां मृगैः सिंहगुहामिव ।।2.99.23।।
Meaning
प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम् । ददर्श भरतस्तत्र पुण्यां रामनिवेशने ।।2.99.24।।
Meaning
निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् । उटजे राममासीनं जटामण्डलधारिणम् ।।2.99.25।।
Meaning
तं तु कृष्णाजिनधरं चीरवल्कलवाससम् । ददर्श राममासीनमभितः पावकोपमम् ।।2.99.26।।
Meaning
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् । पृथिव्याः सागरान्ताया भर्तारं धर्मचारिणम् ।।2.99.27।।
Meaning
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् । स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ।।2.99.28।।
Meaning
तं दृष्ट्वा भरतः श्रीमान् दुःखशोकपरिप्लुतः । अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ।।2.99.29।।
Meaning
दृष्ट्वैव विललापार्तो बाष्पसन्दिग्धया गिरा । अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ।।2.99.30।।
Meaning