Sarga 99: Meeting Rāma
रामसमागमः
rāmasamāgamaḥ — word-by-word gloss for all 42 shlokas.
Jump to a shloka · 42 in this sarga
यः संसदि प्रकृतिभिर्भवेद्युक्तोपासितुम् । वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः ।।2.99.31।।
Meaning
वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः । मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ।।2.99.32।।
Meaning
अधारयद्यो विविधाश्चित्राः सुमनसस्तदा । सोऽयं जटाभारमिमं वहते राघवः कथम् ।।2.99.33।।
Meaning
यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चयः । शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ।।2.99.34।।
Meaning
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् । मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ।।2.99.35।।
Meaning
मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः । धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ।।2.99.36।।
Meaning
इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजः । पादावप्राप्य रामस्य पपात भरतो रुदन् ।।2.99.37।।
Meaning
दुःखाभितप्तो भरतो राजपुत्रो महाबलः । उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ।।2.99.38।।
Meaning
बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम् । आर्येत्येवाथ सङ्क्रुश्य व्याहर्तुं नाशकत्तदा ।।2.99.39।।
Meaning
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् । तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्तयत् ।।2.99.40।।
Meaning