Sarga 52: Crossing the Gaṅgā

गङ्गातरणम्

gaṅgātaraṇam — word-by-word gloss for all 102 shlokas.

Page 1 of 11102 shlokas in this sarga (verified max-across-sources)
Shloka 52.1Word-by-word available

प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः । उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् ।।2.52.1।।

Meaning

Shloka 52.2Word-by-word available

भास्करोदय कालोऽयं गता भगवती निशा । असौ सुकृष्णो विहगः कोकिलस्तात कूजति ।।2.52.2।।

Meaning

Shloka 52.3Word-by-word available

बर्हिणानां च निर्घोषः श्रूयते नदतां वने । तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम् ।।2.52.3।।

Meaning

Shloka 52.4Word-by-word available

विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः । गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः ।।2.52.4।।

Meaning

Shloka 52.5Word-by-word available

स तु रामस्य वचनं निशम्य प्रतिगृह्य च । स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ।।2.52.5।।

Meaning

Shloka 52.6Word-by-word available

अस्य वाहनसम्युक्तां कर्णग्राहवतीं शुभाम् । सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर ।।2.52.6।।

Meaning

Shloka 52.7Word-by-word available

तं निशम्य समादेशं गुहामात्यगणो महान् । उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत् ।।2.52.7।।

Meaning

Shloka 52.8Word-by-word available

ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् । उपस्थितेयं नौर्देव भूयः किं करवाणि ते ।।2.52.8।।

Meaning

Shloka 52.9Word-by-word available

तवामरसुतप्रख्य तर्तुं सागरगां नदीम् । नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत ।।2.52.9।।

Meaning

Shloka 52.10Word-by-word available

अथोवाच महातेजाः रामो गुहमिदं वचः । कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ।।2.52.10।।

Meaning