Sarga 52: Crossing the Gaṅgā
गङ्गातरणम्
gaṅgātaraṇam — word-by-word gloss for all 102 shlokas.
Jump to a shloka · 102 in this sarga
ततः कलापान् सन्नह्य खड्गौ बद्ध्वा च धन्विनौ । जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ।।2.52.11।।
Meaning
राममेव तु धर्मज्ञमुपगम्य विनीतवत् । किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् ।।2.52.12।।
Meaning
ततोऽब्रवीद्दाशरथिः सुमन्त्रम् । स्पृशन् करेणोत्तमदक्षिणेन । सुमन्त्र शीघ्रं पुनरेव याहि । राज्ञः सकाशे भवचाप्रमत्तः ।।2.52.13।।
Meaning
निवर्तस्व इत्युवाचैनमेतावद्धि कृतं मम । रथं विहाय पद्भ्यां तु गमिष्यामि महावनम् ।।2.52.14।।
Meaning
आत्मानं तु अभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः । सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् ।।2.52.15।।
Meaning
नातिक्रान्तमिदं लोके पुरुषेणेह केनचित् । तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने ।।2.52.16।।
Meaning
न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोऽदयः । मार्दवार्जवयोः वाऽपि त्वां चेद्व्यसनमागतम् ।।2.52.17।।
Meaning
सह राघव वैदेह्या भ्रात्रा चैव वने वसन् । त्वं गतिं प्राप्स्यसे वीर त्रीन् लोकांस्तु जयन्निव ।।2.52.18।।
Meaning
वयं खलु हता राम ये तयाऽप्युपवञ्चिताः । कैकेय्या वशमेष्यामः पापाया दुःखभागिनः ।।2.52.19।।
Meaning
इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा । दृष्ट्वा दूरगतं रामं दुःखार्तः रुरुदे चिरम् ।।2.52.20।।
Meaning