Sarga 52: Crossing the Gaṅgā
गङ्गातरणम्
gaṅgātaraṇam — word-by-word gloss for all 102 shlokas.
Jump to a shloka · 102 in this sarga
ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् । रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम् ।।2.52.21।।
Meaning
इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये । यथा दशरथो राजा मां न शोचेत्तथा कुरु ।।2.52.22।।
Meaning
शोकोपहतचेताश्च वृद्धश्च जगतीपतिः । कामभारावसन्नश्च तस्मादेतद्ब्रवीमि ते ।।2.52.23।।
Meaning
यद्यदाज्ञापयेत्किञ्चित् स महात्मा महीपतिः । कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया ।।2.52.24।।
Meaning
एतदर्थं हि राज्यानि प्रशासति नरेश्वराः । यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ।।2.52.25।।
Meaning
यद्यथा स महाराजो नालीकमधिगच्छति । न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा ।।2.52.26।।
Meaning
अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् । ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः ।।2.52.27।।
Meaning
नैवाहमनुशोचामि लक्ष्मणो न च मैथिली । अयोध्यायाश्च्युतास्चेति वने वत्स्यामहेति च ।।2.52.28।।
Meaning
चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः । लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् ।।2.52.29।।
Meaning
एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे । अन्याश्च देवीः सहिताः कैकेयीं च पुनः पुनः ।।2.52.30।।
Meaning