← Ayodhyā Kāṇḍa

Sarga 52: Crossing the Gaṅgā

गङ्गातरणम्

gaṅgātaraṇam — word-by-word gloss for all 102 shlokas.

Page 4 of 11102 shlokas in this sarga (verified max-across-sources)
Shloka 52.31Word-by-word available

आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् । सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च ।।2.52.31।।

Meaning

Shloka 52.32Word-by-word available

ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय । आगतश्चापि भरतः स्थाप्यो नृपमते पदे ।।2.52.32।।

Meaning

Shloka 52.33Word-by-word available

भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च । अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति ।।2.52.33।।

Meaning

Shloka 52.34Word-by-word available

भरतश्चापि वक्तव्यो यथा राजनि वर्तसे । तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ।।2.52.34।।

Meaning

Shloka 52.35Word-by-word available

यथा च तव कैकेयी सुमित्रा च विशेषतः । तथैव देवी कौसल्या मम माता विशेषतः ।।2.52.35।।

Meaning

Shloka 52.36Word-by-word available

तातस्य प्रियकामेन यौवराज्यमवेक्षता । लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम् ।।2.52.36।।

Meaning

Shloka 52.37Word-by-word available

निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः । तत्सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत् ।।2.52.37।।

Meaning

Shloka 52.38Word-by-word available

यदहं नोपचारेण ब्रूयां स्नेहादविक्लबः । भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि ।।2.52.38।।

Meaning

Shloka 52.39Word-by-word available

कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम् । तव तावद्वियोगेन पुत्र शोकाकुलामिव ।।2.52.39।।

Meaning

Shloka 52.40Word-by-word available

सराममपि तावन्मे रथं दृष्ट्वा तदा जनः । विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी ।।2.52.40।।

Meaning