← Ayodhyā Kāṇḍa

Sarga 52: Crossing the Gaṅgā

गङ्गातरणम्

gaṅgātaraṇam — word-by-word gloss for all 102 shlokas.

Page 5 of 11102 shlokas in this sarga (verified max-across-sources)
Shloka 52.41Word-by-word available

दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम् । सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे ।।2.52.41।।

Meaning

Shloka 52.42Word-by-word available

दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् । चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ।।2.52.42।।

Meaning

Shloka 52.43Word-by-word available

दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने । प्रजानां सङ्कुलं वृत्तं त्वच्छोकक्लान्तचेतसाम् ।।2.52.43।।

Meaning

Shloka 52.44Word-by-word available

आर्तनादो हि यः पौरैः मुक्तस्त्वद्विप्रवासने । सरथं मां निशाम्यैव कुर्युः शतगुणं ततः ।।2.52.44।।

Meaning

Shloka 52.45Word-by-word available

अहं किं चापि वक्ष्यामि देवीं तव सुतः मया । नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति ।।2.52.45।।

Meaning

Shloka 52.46Word-by-word available

असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् । कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः ।।2.52.46।।

Meaning

Shloka 52.47Word-by-word available

मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः । कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः ।।2.52.47।।

Meaning

Shloka 52.48Word-by-word available

तन्न शक्ष्याम्यहं गन्तुमयोध्यां त्वदृतेऽनघ । वनवासानुयानाय मामनुज्ञातुमर्हसि ।।2.52.48।।

Meaning

Shloka 52.49Word-by-word available

यदि मे याचमानस्य त्यागमेव करिष्यसि । सरथोऽग्निं प्रवेक्ष्यामि त्यक्तमात्रैह त्वया ।।2.52.49।।

Meaning

Shloka 52.50Word-by-word available

भविष्यन्ति वने यानि तपोविघ्नकराणि ते । रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ।।2.52.50।।

Meaning