Sarga 52: Crossing the Gaṅgā
गङ्गातरणम्
gaṅgātaraṇam — word-by-word gloss for all 102 shlokas.
Jump to a shloka · 102 in this sarga
तत्कृतेन मयाऽवाप्तं रथचर्याकृतं सुखम् । आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ।।2.52.51।।
Meaning
प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः । प्रीत्याऽभिहितमिच्छामि भव मे पत्यनन्तरः ।।2.52.52।।
Meaning
इमे चापि हया वीर यदि ते वनवासिनः । परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ।।2.52.53।।
Meaning
तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् । अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम् ।।2.52.54।।
Meaning
न हि शक्या प्रवेष्टुं सा मया अयोध्या त्वया विना । राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ।।2.52.55।।
Meaning
वनवासे क्षयं प्राप्ते ममैष हि मनोरथः । यदनेन रथेनैव त्वां वहेयं पुरीं पुनः ।।2.52.56।।
Meaning
चतुर्दश हि वर्षाणि सहितस्य त्वया वने । क्षणभूतानि यास्यन्ति शतसङ्ख्याऽन्यतोऽन्यथा ।।2.52.57।।
Meaning
भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि । भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि ।।2.52.58।।
Meaning
एवं बहुविधं दीनं याचमानं पुनः पुनः । रामः भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ।।2.52.59।।
Meaning
जानामि परमां भक्तिं मयि ते भर्तृवत्सल । शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ।।2.52.60।।
Meaning