Sarga 52: Crossing the Gaṅgā
गङ्गातरणम्
gaṅgātaraṇam — word-by-word gloss for all 102 shlokas.
Jump to a shloka · 102 in this sarga
नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी । कैकेयी प्रत्ययं गच्छेदिति रामः वनं गतः ।।2.52.61।।
Meaning
परितुष्टा हि सा देवि वनवासं गते मयि । राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ।।2.52.62।।
Meaning
एष मे प्रथमः कल्पो यदम्बा मे यवीयसी । भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात् ।।2.52.63।।
Meaning
मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज । सन्दिष्टश्चासि यानर्थान् तांस्तान् ब्रूयास्तथा तथा ।।2.52.64।।
Meaning
इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः । गुहं वचनमक्लीबः रामः हेतुमदब्रवीत् ।।2.52.65।।
Meaning
नेदानीं गुह योग्योऽयं वसो मे सजने वने । अवश्यं ह्याश्रमे वासः कर्तव्यस्तद्गतो विधिः ।।2.52.66।।
Meaning
सोऽहं गृहीत्वा नियमं तपस्विजनभूषणम् । हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ।।2.52.67।।
Meaning
जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरमानय । तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् ।।2.52.68।।
Meaning
लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः । दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत् ।।2.52.69।।
Meaning
तौ तदा चीरवसनौ जटामण्डलधारिणौ । अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ।।2.52.70।।
Meaning