Sarga 52: Crossing the Gaṅgā
गङ्गातरणम्
gaṅgātaraṇam — word-by-word gloss for all 102 shlokas.
Jump to a shloka · 102 in this sarga
ततः वैखानसं मार्गमास्थितः सहलक्ष्मणः । व्रतमादिष्टवान् रामः सहायं गुहमब्रवीत् ।।2.52.71।।
Meaning
अप्रमत्तः बले कोशे दुर्गे जनपदे तथा । भवेथा गुह राज्यं हि दुरारक्षतमं मतम् ।।2.52.72।।
Meaning
ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः । जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ।।2.52.73।।
Meaning
स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः । तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् ।।2.52.74।।
Meaning
आरोह त्वं नरव्याघ्र स्थितां नावमिमां शनैः । सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ।।2.52.75।।
Meaning
स भ्रातुः शासनं शृत्वा सर्वमप्रतिकूलयन् । आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः ।।2.52.76।।
Meaning
अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः । ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् ।।2.52.77।।
Meaning
राघवोऽपि महातेजाः नावमारुह्य तां ततः । ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ।।2.52.78।।
Meaning
आचम्य च यथाशास्त्रं नदीं तां सह सीतया । प्राणमत्प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभः ।।2.52.79।।
Meaning
अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् । आस्थाय नावं रामस्तु चोदयामास नाविकान् ।।2.52.80।।
Meaning