Sarga 52: Crossing the Gaṅgā
गङ्गातरणम्
gaṅgātaraṇam — word-by-word gloss for all 102 shlokas.
Jump to a shloka · 102 in this sarga
ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता । शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् ।।2.52.81।।
Meaning
मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता । वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ।।2.52.82।।
Meaning
पुत्रो दशरथस्यायं महाराजस्य धीमतः । निदेशं पालयत्वेमं गङ्गे त्वदभिरक्षितः ।।2.52.83।।
Meaning
चतुर्दश हि वर्षाणि समग्राण्युष्य कानने । भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ।।2.52.84।।
Meaning
ततस्त्वां देवि सुभगे क्षेमेण पुनरागता । यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी ।।2.52.85।।
Meaning
त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे । भार्या चोदधिराजस्य लोकेऽस्मिन् सम्प्रदृश्यसे ।।2.52.86।।
Meaning
सा त्वां देवि नमस्यामि प्रशंसामि च शोभने । प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ।।2.52.87।।
Meaning
गवां शतसहस्रं च वस्त्राण्यन्नं च पेशलम् । ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया ।।2.52.88।।
Meaning
सुराघटसहस्रेण मांसभूतौदनेन च । यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता ।।2.52.89।।
Meaning
यानि त्वत्तीरवासीनि दैवतानि वसन्ति च । तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ।।2.52.90।।
Meaning