← Ayodhyā Kāṇḍa

Sarga 52: Crossing the Gaṅgā

गङ्गातरणम्

gaṅgātaraṇam — word-by-word gloss for all 102 shlokas.

Page 10 of 11102 shlokas in this sarga (verified max-across-sources)
Shloka 52.91Word-by-word available

पुनरेव महाबाहुर्मया भ्रात्रा च सङ्गतः । अयोध्यां वनवासात्तु प्रविशत्वनघोऽनघे ।।2.52.91।।

Meaning

Shloka 52.92Word-by-word available

तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता । दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ।।2.52.92।।

Meaning

Shloka 52.93Word-by-word available

तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः । प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः ।।2.52.93।।

Meaning

Shloka 52.94Word-by-word available

अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम् । भव संरक्षणार्थाय सजने विजनेऽपि वा ।।2.52.94।।

Meaning

Shloka 52.95Word-by-word available

अवश्यं रक्षणं कार्यमदृष्टे विजने वने । अग्रतः गच्छ सौमित्रे सीता त्वामनुगच्छतु ।।2.52.95।।

Meaning

Shloka 52.96Word-by-word available

पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् । अन्योन्यस्येह नो रक्षा कर्तव्या पुरुषर्षभ ।।2.52.96।।

Meaning

Shloka 52.97Word-by-word available

न हि तावदतिक्रान्ता सुकरा काचन क्रिया । अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति ।।2.52.97।।

Meaning

Shloka 52.98Word-by-word available

प्रनष्टजनसम्बाधं क्षेत्रारामविवर्जितम् । विषमं च प्रपातं च वनं ह्यद्य प्रवेक्ष्यति ।।2.52.98।।

Meaning

Shloka 52.99Word-by-word available

शृत्वा रामस्य वचनं प्रतिस्थे लक्ष्मणोऽग्रतः । अनन्तरं च सीतायाः राघवो रघुनन्दनः ।।2.52.99।।

Meaning

Shloka 52.100Word-by-word available

गतं तु गङ्गापारमाशु । रामं सुमन्त्रः प्रततं निरीक्ष्य । अध्वप्रकर्षाद्विनिवृत्तदृष्टिः । मुमोच बाष्पं व्यथितस्तपस्वी ।।2.52.100।।

Meaning