Sarga 29: Sītā Insists on Following
वनानुगमनयाच्ञानिर्बन्धः
vanānugamanayācñānirbandhaḥ — word-by-word gloss for all 24 shlokas.
Jump to a shloka · 24 in this sarga
एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता। प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् ।।2.29.1।।
Meaning
ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति। गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृतान् ।।2.29.2।।
Meaning
मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा। पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ।।2.29.3।।
Meaning
अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघवः। रूपं दृष्ट्वाऽपसर्पेयुर्भये सर्वे हि बिभ्यति ।।2.29.4।।
Meaning
त्वया च सह गन्तव्यं मया गुरुजनाज्ञया। त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् ।।2.29.5।।
Meaning
न च मां त्वत्समीपस्थामपि शक्नोति राघव। सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा ।।2.29.6।।
Meaning
पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्। काममेवंविधं राम त्वया मम विदर्शितम् ।।2.29.7।।
Meaning
अथ वापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम्। पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ।।2.29.8।।
Meaning
लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाऽहं वचनं पुरा। वनवासकृतोत्साहा नित्यमेव महाबल ।।2.29.9।।
Meaning
आदेशो वनवासस्य प्राप्तव्यः स मया किल। सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा ।।2.29.10।।
Meaning