Sarga 29: Sītā Insists on Following
वनानुगमनयाच्ञानिर्बन्धः
vanānugamanayācñānirbandhaḥ — word-by-word gloss for all 24 shlokas.
Jump to a shloka · 24 in this sarga
कृतादेशा भविष्यामि गमिष्यामि सह त्वया। कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः ।।2.29.11।।
Meaning
वनवासे हि जानामि दुःखानि बहुधा किल। प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः ।।2.29.12।।
Meaning
कन्यया च पितुर्गेहे वनवासः श्रुतो मया। भिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः ।।2.29.13।।
Meaning
प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो। गमनं वनवासस्य काङ्क्षितं हि सह त्वया ।।2.29.14।।
Meaning
कृतक्षणाऽहं भद्रं ते गमनं प्रति राघव। वनवासस्य शूरस्य चर्या हि मम रोचते ।।2.29.15।।
Meaning
शुद्धात्मन्प्रेमभावाद्धि भविष्यामि विकल्मषा। भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम् ।।2.29.16।।
Meaning
प्रेत्यभावेऽपि कल्याणः सङ्गमो मे सह त्वया। श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां तपस्विनाम् ।।2.29.17।।
Meaning
इह लोके च पितृभिर्या स्त्री यस्य महामते। अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ।।2.29.18।।
Meaning
एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम्। नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना ।।2.29.19।।
Meaning
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः। नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् ।।2.29.20।।
Meaning