Sarga 32: Wealth Given Away
वित्तविश्राणनम्
vittaviśrāṇanam — word-by-word gloss for all 45 shlokas.
Jump to a shloka · 45 in this sarga
ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम्। गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ।।2.32.1।।
Meaning
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्। सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ।।2.32.2।।
Meaning
ततः सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह। जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ।।2.32.3।।
Meaning
तमागतं वेदविदं प्राञ्जलिः सीतया सह। सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् ।।2.32.4।।
Meaning
जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः। सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि ।।2.32.5।।
Meaning
अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्। सुयज्ञं स तदोवाच रामः सीताप्रचोदितः ।।2.32.6।।
Meaning
हारं च हेमसूत्रं च भार्यायै सौम्य हारय। रशनां चाधुना सीता दातुमिच्छति ते सखे ।।2.32.7।।
Meaning
अङ्गदानि विचित्राणि केयूराणि शुभानि च। प्रयच्छति सखे तुभ्यं भार्यायै गच्छती वनम् ।।2.32.8।।
Meaning
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्। तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ।।2.32.9।।
Meaning
नागः शत्रुञ्जयो नाम मातुलोऽयं ददौ मम। तं ते गजसहस्रेण ददामि द्विजपुङ्गव ।।2.32.10।।
Meaning