← Ayodhyā Kāṇḍa

Sarga 32: Wealth Given Away

वित्तविश्राणनम्

vittaviśrāṇanam — word-by-word gloss for all 45 shlokas.

Page 2 of 545 shlokas in this sarga (verified max-across-sources)
Shloka 32.11Word-by-word available

इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत्। रामलक्ष्मणसीतानां प्रयुयोजाऽशिषः शुभाः ।।2.32.11।।

Meaning

Shloka 32.12Word-by-word available

अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः। सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ।।2.32.12।।

Meaning

Shloka 32.13Word-by-word available

अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ। अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः ।।2.32.13।।

Meaning

Shloka 32.14Word-by-word available

तर्पयस्व महाबाहो गोसहस्रैश्च मानद। सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ।।2.32.14।।

Meaning

Shloka 32.15Word-by-word available

कौसल्यां च सुमित्रां च भक्तः पर्युपतिष्ठति। आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ।।2.32.15।।

Meaning

Shloka 32.16Word-by-word available

तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय। कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ।।2.32.16।।

Meaning

Shloka 32.17Word-by-word available

सूतश्चित्ररथश्चार्यः सचिवः सुचिरोसितः। तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा ।।2.32.17।।

Meaning

Shloka 32.18Word-by-word available

पशुकाभिश्च सर्वाभिर्गवां दशशतेन च। ये चेमे कठकालापा बहवो दण्डमाणवाः ।।2.32.18।।

Meaning

Shloka 32.19Word-by-word available

नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किञ्चन। अलसाः स्वादुकामाश्च महतां चापि सम्मताः ।।2.32.19।।

Meaning

Shloka 32.20Word-by-word available

तेषामशीतियानानि रत्नपूर्णानि दापय। शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा ।।2.32.20।।

Meaning