Sarga 32: Wealth Given Away
वित्तविश्राणनम्
vittaviśrāṇanam — word-by-word gloss for all 45 shlokas.
Jump to a shloka · 45 in this sarga
व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु। मेखलीनां महासङ्घः कौसल्यां समुपस्थितः ।।2.32.21।।
Meaning
तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय। अम्बा यथा च सा नन्देत्कौसल्यामम दक्षिणाम् ।।2.32.22।।
Meaning
तथा द्विजातींस्तान्सर्वांल्लक्ष्मणार्चय सर्वशः। ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् ।।2.32.23।।
Meaning
यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा। अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः ।।2.32.24।।
Meaning
सम्प्रदाय बहुद्रव्यमेकैकस्योपजीवनम्। लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम ।।2.32.25।।
Meaning
अशून्यं कार्यमेकैकं यावदागमनं मम। इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् ।।2.32.26।।
Meaning
उवाचेदं धनाध्यक्षं धनमानीयतामिति। ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः ।।2.32.27।।
Meaning
स राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत। ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः ।।2.32.28।।
Meaning
द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत्। तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः ।।2.32.29।।
Meaning
उञ्छवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली। तं वृद्धं तरुणी भार्या बालानादाय दारकान् ।।2.32.30।।
Meaning