Sarga 32: Wealth Given Away
वित्तविश्राणनम्
vittaviśrāṇanam — word-by-word gloss for all 45 shlokas.
Jump to a shloka · 45 in this sarga
अब्रवीद्ब्राह्मणं वाक्यं दारिद्र्येणाभिपीडिता। अपास्य फालं कुद्दालं कुरुष्व वचनं मम ।।2.32.31।।
Meaning
रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसि। भार्याया वचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ।।2.32.32।।
Meaning
स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम्। भृग्वङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि ।।2.32.33।।
Meaning
आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत्। स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् ।।2.32.34।।
Meaning
निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः। उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ।।2.32.35।।
Meaning
तमुवाच ततो रामः परिहाससमन्वितम्। गवां सहस्रमप्येकं न तु विश्राणितं मया ।।2.32.36।।
Meaning
परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि। स शाटीं त्वरितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम् ।।2.32.37।।
Meaning
आविद्ध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः। स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः ।।2.32.38।।
Meaning
गोव्रजे बहुसाहस्रे पपातोक्षणसन्निधौ। तं परिष्वज्य धर्मात्मा आ तस्मात्सरयूतटात् ।।2.32.39।।
Meaning
आनयामास ता गोपैस्त्रिजटायाश्रमं प्रति। उवाच च ततो रामस्तं गार्ग्यमभिसान्त्वयन्। मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ।।2.32.40।।
Meaning