← Ayodhyā Kāṇḍa

Sarga 32: Wealth Given Away

वित्तविश्राणनम्

vittaviśrāṇanam — word-by-word gloss for all 45 shlokas.

Page 5 of 545 shlokas in this sarga (verified max-across-sources)
Shloka 32.41Word-by-word available

इदं हि तेजस्तव यद्दुरत्ययं तदेव जिज्ञासितुमिच्छता मया। इमं भवानर्थमभिप्रचोदितो वृणीष्व किं चेदपरं व्यवस्यति ।।2.32.41।।

Meaning

Shloka 32.42Word-by-word available

ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा धनं हि यद्यन्मम विप्रकारणात्। भवत्सु सम्यक्प्रतिपादनेन तन्मयार्जितं प्रीतियशस्करं भवेत् ।।2.32.42।।

Meaning

Shloka 32.43Word-by-word available

ततः सभार्यस्त्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदितः। यशोबलप्रीतिसुखोपबृंहणीस्तदाशिषः प्रत्यवदन्महात्मनः ।।2.32.43।।

Meaning

Shloka 32.44Word-by-word available

स चापि रामः प्रतिपूर्णमानसो महद्धनं धर्मबलैरुपार्जितम्। नियोजयामास सुहृज्जनेऽचिराद्यथार्हसम्मानवचःप्रचोदितः ।।2.32.44।।

Meaning

Shloka 32.45Word-by-word available

द्विजः सुहृद्भृत्यजनोऽथवा तदा दरिद्रभिक्षाचरणश्च योऽभवत्। न तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्माननदानसम्भ्रमैः ।।2.32.45।।

Meaning